|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.312. अध्यायः 312
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विद्याऽविद्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वसिष्ठ उवाच। 12-312-0x(6497)(78076)
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम्।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः॥ 12-312-1(78077)
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम्।
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः॥ 12-312-2(78078)
`एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित्।'
परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः।
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम्॥ 12-312-3(78079)
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्॥ 12-312-4(78080)
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते॥ 12-312-5(78081)
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः।
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर॥ 12-312-6(78082)
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः॥ 12-312-7(78083)
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव॥ 12-312-8(78084)
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशक॥ 12-312-9(78085)
विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे॥ 12-312-10(78086)
उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ।
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः॥ 12-312-11(78087)
अनादिनिधनावेतावुभावेवेश्वरौ मतौ।
तत्त्वसंज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः॥ 12-312-12(78088)
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम्।
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः॥ 12-312-13(78089)
गुणानां महदादीनामुत्पद्यन्ते परम्पराः।
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्॥ 12-312-14(78090)
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते॥ 12-312-15(78091)
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते॥ 12-312-16(78092)
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात्॥ 12-312-17(78093)
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात्।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम॥ 12-312-18(78094)
क्षरो भवत्येष यदा तदा गुणवती मिथः।
प्रकृतिं त्विभजानाति निर्गुणत्वं तथाऽऽत्मनः॥ 12-312-19(78095)
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्॥ 12-312-20(78096)
तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत्।
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते॥ 12-312-21(78097)
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते।
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत्॥ 12-312-22(78098)
किमहं कृतवानेवं योहं कालमिमं जनम्।
`यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा।'
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह॥ 12-312-23(78099)
अहमेव हि संमोहादन्यमन्यं जनाज्जनम्।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम्॥ 12-312-24(78100)
मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते।
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेदयहम्॥ 12-312-25(78101)
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्॥ 12-312-26(78102)
अयमत्र भेवद्बन्धुरनेन सह मे क्षमम्।
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम्॥ 12-312-27(78103)
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै।
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा॥ 12-312-28(78104)
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान्।
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम्॥ 12-312-29(78105)
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान्।
उच्चमध्यमनीचानां तामहं कथमावसे॥ 12-312-30(78106)
समानया न याचेह सहवासमहं कथम्।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे॥ 12-312-31(78107)
सहवासं न यास्यामि कालमेतद्धि वञ्चनात्।
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया॥ 12-312-32(78108)
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम।
योऽहमत्राभवं सक्तः पराङ्भुखमुपस्थितः॥ 12-312-33(78109)
ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः॥ 12-312-34(78110)
प्रकृतेरनयत्वेन तासु तास्विह योनिषु।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च॥ 12-312-35(78111)
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा।
न ममात्रानया कार्यमहंकारकृतात्मना॥ 12-312-36(78112)
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्।
इदानीमेष बुद्धोस्मि निर्ममो निरहंकृतः॥ 12-312-37(78113)
ममत्वमनया नित्यमहंकारकृतात्मकम्।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्॥ 12-312-38(78114)
अनेन साम्यं यास्यामि नानयाऽहमचेतसा।
क्षणं मम सहानेन नैकत्वमनया सह॥ 12-312-39(78115)
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान्।
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्॥ 12-312-40(78116)
अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा।
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल॥ 12-312-41(78117)
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम्।
मयेह ज्ञानसंपन्नं यथाश्रूतिनिदर्शनात्॥ 12-312-42(78118)
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा।
प्रवक्ष्यामि तुते भूयस्तन्निबोध यथाश्रुतम्॥ 12-312-43(78119)
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्।
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत्॥ 12-312-44(78120)
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया॥ 12-312-45(78121)
पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः।
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः॥ 12-312-46(78122)
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप।
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम्॥ 12-312-47(78123)
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्॥ ॥ 12-312-48(78124)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वादशाधिकत्रिशततमोऽध्यायः॥ 312॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-312-10 विद्याविद्यार्थतत्वेनेति ट. पाठः॥ 12-312-14 अधिष्ठानं क्षेममाहुरिति ड. थ. पाठः॥ 12-312-22 न संसृजेदिति ध. पाठः॥ 12-312-25 उदकादभिमन्यत इति ट. ध. पाठः॥ 12-312-35 प्राकृतेन ममत्वेनेति झ. पाठः॥ 12-312-37 श्रेयो भूयो युनक्तिमामिति ध.पाठः॥ 12-312-41 अव्यक्तं व्यक्तधर्माणमिति झ. पाठः॥ 12-312-46 पुनर्वेदे पुरःसर इति झ. पाठः॥ 12-312-47 पठ्यते न नराधिपेति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|